home page

नवरात्रित: पूर्वं देवालयेषु स्वच्छता अनिवार्या — महापौरः

 | 
नवरात्रित: पूर्वं देवालयेषु स्वच्छता अनिवार्या — महापौरः


कानपुरनगरम्, १८ मार्चमासः (हि.स.)। नवरात्रस्य पावनावसरं दृष्ट्वा सर्वे भक्ताः स्वयं देवालयेषु स्वच्छतायाः विशेषं ध्यानं धारयन्तु, यथा श्रद्धालुभ्यः शुद्धं सुव्यवस्थितं च वातावरणं लभ्येत। धार्मिकस्थलानां स्वच्छता अस्माकं सर्वेषां सामूहिक-कर्त्तव्यम् अस्ति, इति बुधवासरे महापौरः प्रमिला-पाण्डेया अवदत्।

नवरात्र-पर्व दृष्ट्वा नगरमध्ये देवालयेषु स्वच्छतायाः कार्ये विशेषम् अभियानं सञ्चालितम्। तस्मिन्क्रमे महापौरः माता-बारा-देवी-मन्दिरं प्राप्य पार्षदैः जनप्रतिनिधिभिः सह स्वच्छता-अभियानं आरभत। अस्मिन् समये मन्दिरपरिसरे मार्जनीं कृत्वा, जलस्नानेन धौतं कृत्वा परिसरः शुद्धः सुव्यवस्थितः च कृतः।

अस्मिन् अभियाने पार्षदाः नवीनः पण्डितः, नीरजः वाजपेयी, अमितः जायसवालः, मनीषः मिश्रा, अभिनवः शुक्ल ‘गोलू’, योगेन्द्रः शर्मा, नीरजः रक्सेल, विद्या वर्मा, कौशलः किशोरः मिश्रा, आकर्षः वाजपेयी, हरी स्वरूपः तिवारी चान्ये च उपस्थिताः। सर्वे स्वच्छतायाः संदेशं प्रदत्तवन्तः जनान् जागरूकं कृतवन्तः।

महापौरः अवदत् यत् नवरात्रिकाले देवालयेषु श्रद्धालूनां संख्यावृद्धिं याति, अतः स्वच्छतायाः पालनं अतीव आवश्यकं भवति। ते जनान् आवाहयन्ति यत् न केवलं देवालयान्, किन्तु स्व-क्षेत्राणि अपि स्वच्छं धारयन्तु तथा कूटकं इतस्तत: न प्रवर्तयन्तु।

नगर-निगमेन सञ्चालिते अस्मिन् अभियाने लक्ष्यं यत् नवरात्रिकाले नगरस्य प्रमुखेभ्यः देवालयेभ्यः स्वच्छता सुनिश्चिता भवेत्, यथा श्रद्धालुभ्यः असौविध्यं न स्यात्, ते सुचारु रूपेण पूजार्चनां कर्तुं शक्नुवन्ति।

हिन्दुस्थान समाचार / रोहित कश्यप